|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.220. अध्यायः 220
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रत्याङ्गिरसोपाख्यानकथनारम्भः ॥ 1 ॥ अग्ङिरसःपुत्रस्य बृहस्पतेर्देवैरङ्गिरसो वचनाद्गुरुत्वेन स्वीकरणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-220-0x(2522)(24593)
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥ 3-220-1(24594)
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा।
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः ॥ 3-220-2(24595)
अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु।
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥ 3-220-3(24596)
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्।
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च ॥ 3-220-4(24597)
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम।
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥ 3-220-5(24598)
मार्कण्डेय उवाच। 3-220-6x(2523)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ 3-220-6(24599)
यथा च भगवानग्निः स्वयमेवाङ्गेराऽभवत्।
संतापयंश्च प्रभया नाशयंस्तिमिरावलिम् ॥ 3-220-7(24600)
पुराङ्गिरा महाबाहो चचार तप उत्तमम्।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्।
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत् ॥ 3-220-8(24601)
तपश्चरंस्तु हुतभुक्संतप्तस्तस्य तेजसा।
भृशं ग्लानश्चतेजस्वी न च किंचित्प्रजज्ञिवान् ॥ 3-220-9(24602)
अथ संचिन्तयामास भगवान्हव्यवाहनः।
अन्योऽग्निरिव लोकानां ब्रह्मणा संप्रकल्पितः ॥ 3-220-10(24603)
अग्नित्वं विप्रनष्टं हि तप्यमानस् मे तपः।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥ 3-220-11(24604)
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्।
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥ 3-220-12(24605)
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ 3-220-13(24606)
त्वमग्ने प्रथमः सृष्टो ब्र्हमणा तिमिरापर्हः।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद ॥ 3-220-14(24607)
अग्निरुवाच। 3-220-15x(2524)
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ 3-220-15(24608)
निक्षिपम्यहमग्नित्वं त्वमग्निः प्रथमो भव।
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥ 3-220-16(24609)
अङ्गिरा उवाच। 3-220-17x(2525)
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ 3-220-17(24610)
मार्कण्डेय उवाच। 3-220-18x(2526)
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत्।
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ 3-220-18(24611)
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम्।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ 3-220-19(24612)
स तु पृष्टस्तदा देवैस्तत कारणमब्रवीत्।
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा ॥ 3-220-20(24613)
तत्रनानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्।
कर्मभिर्वहुभिः ख्याताननानार्थान्ब्राह्मणेष्विह ॥ 3-220-21(24614)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220॥
Mahabharata - Vana Parva - Chapter Footnotes
3-220-13 संस्थानचारिषु स्थावरजंगमेषु। सम्यक् स्थानं गतिनिवृत्तिर्येषु चरणशीलेषु चेति योगात् ॥ 3-220-16 प्राजापत्यस्तथैकत इति क. थ. ध. पाठः ॥ 3-220-20 प्रत्यगृह्णन् अङ्गिरसो वचः अयं भवतां गुरुरिति अङ्गीकृतवन्तः ॥ 3-220-21 यातान्नानात्वं ब्राह्मणेष्वपि इति थ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|